|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.150. अध्यायः 150
Mahabharata - Udyoga Parva - Chapter Topics
कृष्णेन पाण्डवान्प्रति भीष्मादिवचनमवधूय समुत्थितेन दुर्योधनेन चोदितानां राज्ञीं भीष्मं पुरस्कृत्य सेनाभिः सह कुरुक्षत्रेप्रस्थानकथनम् ॥ 1 ॥ तथा स्वेन सामादित्रयप्रयोगेऽप्यवशीभूते दुर्योधने दण्डस्यैव प्रयोक्तव्यत्वकथनम् ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-150-0(36928)
भगवानुवाच। 5-150-0x(3828)
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च।
गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत ॥ 5-150-1(36929)
अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः।
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ॥ 5-150-2(36930)
आज्ञापयच्च राज्ञस्तान्पार्थिवान्नष्टचेतसः ।
प्रयात वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ॥ 5-150-3(36931)
ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः ।
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ॥ 5-150-4(36932)
अक्षौहिण्यो दशैका च कौरवाणां समागताः ।
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ॥ 5-150-5(36933)
यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशांपते ।
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च ॥ 5-150-6(36934)
गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ।
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥ 5-150-7(36935)
साम चादौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता ।
अभेदायास्य वंशस्य प्रजानां च विवृद्धये ॥ 5-150-8(36936)
पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते।
कर्मानुकीर्तनं चैव देवमानुपसंहितम् ॥ 5-150-9(36937)
यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः ।
तदा मया समानीय भेदिताः सर्वपार्थिवाः ॥ 5-150-10(36938)
अद्भुतानि च घोराणि दारुणानि च भारत।
अमानुषाणि कर्माणि दर्शितानि मया विभो ॥ 5-150-11(36939)
निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम् ।
राधेयं भीषयित्वा च सौबलं च पुनः पुनः ॥ 5-150-12(36940)
द्यूततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः।
भेदयित्वा नृपास्नर्वान्वाग्भिर्मन्त्रेम चासकृत् ॥ 5-150-13(36941)
पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम्।
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च॥ 5-150-14(36942)
ते शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च ।
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ॥ 5-150-15(36943)
प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च।
यथाह राजा गाङ्गेयो विदुरश्च हितं तव ॥ 5-150-16(36944)
सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय।
अवश्यं भरणीया हि पितुस्ते राजसत्तम ॥ 5-150-17(36945)
एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत।
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥ 5-150-18(36946)
निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः ।
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥ 5-150-19(36947)
न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव ।
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ॥ ॥ 5-150-20(36948)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|